|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.220. अध्यायः 220
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति जनकाथ पञ्चशिखोक्तनास्तिकादिमतखण्डनानुवादः॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
युधिष्ठिर उवाच। 12-220-0x(6098)(73921)
केन वृत्तेन वृत्तज्ञो जनको मिथिलाधिपः।
जगाम मोक्षं धर्मज्ञो भोगानुत्सृज्य बुद्धिमान्॥ 12-220-1(73922)
भीष्म उवाच। 12-220-2x(6099)
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
येन वृत्तेन धर्मज्ञः स जगाम महत्सुखम्॥ 12-220-2(73923)
जनको जनदेवस्तु मिथिलायां जनाधिप।
और्ध्वदेहिकधर्माणामासीद्युक्तो विचिन्तने॥ 12-220-3(73924)
तस्य स्म शतमाचार्या वसन्ति सततं गृहे।
दर्शयन्तः पृथग्धर्मान्नानापाषण्डवादिनः॥ 12-220-4(73925)
स तेषां प्रेत्यभावेन प्रेत्य गातौ विनिश्चये।
आगमस्थः स भूयिष्ठमात्मतत्त्वेन तुष्यन्ति॥ 12-220-5(73926)
तत्र पञ्चशिखो नाम कापिलेयो महामुनिः।
परिधावन्महीं कृत्स्नां जगाम यलामथ॥ 12-220-6(73927)
सर्वसंन्यासधर्माणां तत्त्वज्ञाननिश्चये।
सुपर्यवसितार्थश्च निर्द्वन्द्वो नष्टगशयः॥ 12-220-7(73928)
ऋषीणामाहुरेकं यं कामाद-----नृषु।
शाश्वतं सुखमत्यन्तमन्वि---सुदुर्लभम्॥ 12-220-8(73929)
यमाहुः कपिलं साङ्ख्याः परमर्षि प्रजापतिम्।
समेत्य तेन रूपेण विस्मापयति हि स्वयम्॥ 12-220-9(73930)
आसुरेः प्रथमं शिष्यं यमाहुश्चिरजीविनम्।
पञ्चस्रोतसि यः सत्रमास्ते वर्षसहस्रिकम्॥ 12-220-10(73931)
तमासीनं समागम्य कापिलं मण्डलं महत्।
[पञ्चस्रोतसि निष्णातः पञ्चरात्रविशारदः। 12-220-11(73932)
पञ्चज्ञः पञ्चकृत्पञ्चगुणः पञ्चशिखः स्मृतः।]
पुरुषावस्थमव्यक्तं परमार्थं न्यवेदयत्॥ 12-220-12(73933)
इष्ट्वा सत्रेण संपृष्टो भूयश्च तपसाऽऽसुरिः।
क्षेत्रक्षेत्रज्ञयोर्व्यक्तिं बुबुधे देवदर्शनात्॥ 12-220-13(73934)
यत्तदेकाक्षरं ब्रह्म नानारूपं प्रदृश्यते।
`बोधायनपरान्विप्रानृषिभावमुपागतः।'
आसुरिर्मण्डले तस्मिन्प्रतिपेदे तदव्ययम्॥ 12-220-14(73935)
तस्य पञ्चशिखः शिष्यो मानुष्याः पयसा भृतः।
ब्राह्मणी कपिला नाम काचिदासीत्कुटुम्बिनी॥ 12-220-15(73936)
तस्याः पुत्रत्वमागम्य स्त्रियाः स पिबति स्तनौ।
ततः स कापिलेयत्वं लेभे बुद्धिं च नैष्ठिकीम्॥ 12-220-16(73937)
एतन्मे भगवानाह कापिलेयस्य संभवम्।
तस्य तत्कापिलेयत्वं सर्ववित्त्वमनुत्तमम्॥ 12-220-17(73938)
सामान्यं जनकं ज्ञात्वा धर्मज्ञानामनुत्तमम्।
उपेत्य शतमाचार्यान्मोहयामास हेतुभिः॥ 12-220-18(73939)
`निराकरिष्णुस्तान्सर्वांस्तेषां हेतुगुणान्वहून्।
श्रावयामास मतिमान्मुनिः पञ्चशिखो नृप॥' 12-220-19(73940)
जनकस्त्वभिसंरक्तः कापिलेयानुदर्शनात्।
उत्सृज्य शतमाचार्यान्पृष्ठतोऽनुजगाम तम्॥ 12-220-20(73941)
तस्मै परमकल्याय प्रणताय च धर्मतः।
अब्रवीत्परमं मोक्षं यतः साङ्ख्यं विधीयते॥ 12-220-21(73942)
जातिनिर्वेदमुक्त्वा स कर्मनिर्वेदमब्रवीत्।
कर्मनिर्वेदमुक्त्वा च सर्वनिर्वेदमब्रवीत्॥ 12-220-22(73943)
यदर्थं धर्मसंसर्गः कर्मणां च फलोदयः।
तमनाश्वासिकं मोहं विनाशि चलमध्रुवम्॥ 12-220-23(73944)
दृश्यमाने विनाशे च प्रत्यक्षे लोकसाक्षिके।
आगमात्परमस्तीति ब्रुवन्नपि पराजितः॥ 12-220-24(73945)
आत्मना ह्यात्मनो नित्यं क्लेशमृत्युजरामयम्।
आत्मानं मन्यते मोहात्तदसम्यक्परं मतम्॥ 12-220-25(73946)
अथ चेदेवमप्यस्ति यल्लोके नोपपद्यते।
अजरोऽयममृत्युश्च राजाऽसौ मन्यते तथा॥ 12-220-26(73947)
अस्ति नास्तीति चाप्येतत्तस्मिन्नसति लक्षणे।
किमधिष्ठाय तद्ब्रूयाल्लोकयात्राविनिश्चयम्॥ 12-220-27(73948)
प्रत्यक्षं ह्येतयोर्मूलं कृतान्तैतिह्ययोरपि।
प्रत्यक्षेणागमो भिन्नः कृतान्तो वा न कश्चन॥ 12-220-28(73949)
यत्रतत्रानुमानेऽस्मिन्कृतं भावयतोऽपि च।
नान्यो जीवः शरीरस्य नास्तिकानां मते स्मृतः॥ 12-220-29(73950)
रेतो वटकणीकायां घृतपाकाधिवासनम्।
जातिः स्मृतिरयस्कान्तः सूर्यकान्तोऽम्बुभक्षणम्॥ 12-220-30(73951)
प्रेत्य भूताप्ययश्चैव देवताभ्युपयाचनम्।
मृते कर्मनिवृत्तिश्च प्रमाणमिति निश्चयः॥ 12-220-31(73952)
न त्वेते हेतवः सन्ति ये केचिन्मूर्तिसंस्थिताः।
अमूर्तस्य हि मूर्तेन सामान्यं नोपपद्यते॥ 12-220-32(73953)
अविद्याकर्मचेष्टानां केचिदाहुः पुनर्भवे।
कारणं लोभमोहौ तु दोषाणां च निषेवणम्॥ 12-220-33(73954)
अविद्यां क्षेत्रमाहुर्हि कर्मबीजं तथा कृतम्।
तृष्णासंजननं स्नेह एष तेषां पुनर्भवः॥ 12-220-34(73955)
तस्मिन्मूढे च जग्धे च देहे मरणधर्मिणि।
अन्योऽसौ जायते प्रेतस्तदाहुस्तत्वमक्षयम्॥ 12-220-35(73956)
यदा स्वरूपतश्चान्यो जातितः श्रुतितोऽर्थतः।
कथमस्मिन्स इत्येवं संबोधः स्यादसंहितः॥ 12-220-36(73957)
एवं सति च का प्रीतिर्दानविद्यातपोबलैः।
यद्यदाचरितं कर्म सर्वमन्यत्प्रपद्यते॥ 12-220-37(73958)
यदि ह्ययमिहैवान्यैः प्राकृतैर्दुःखितो भवेत्।
सुखितो दुःखितैर्वाऽपि दृश्यो ह्यस्यविनिर्णयः॥ 12-220-38(73959)
यदा हि मुसलैर्हन्युः शरीरं न पुनर्भवेत्।
पृथग्ज्ञानं यदन्यच्च येनैतन्नोपपद्यते॥ 12-220-39(73960)
ऋतुसंवत्सरौ तिथ्यः शीतोष्णेऽथ प्रियाप्रिये।
यथाऽतीता न दृश्यन्ते तादृशः सत्वसंक्षयः॥ 12-220-40(73961)
जरयाऽभिपरीतस्य मृत्युना न विनाशिना।
दुर्बलं दुर्बलं पूर्वं गृहस्येव विनश्यति॥ 12-220-41(73962)
इन्द्रियाणी मनो वायुः शोणितं मांसमस्थि च।
आनुपूर्व्या विनश्यन्ति स्वं धातुमुपयान्ति च॥ 12-220-42(73963)
लोकयात्राविधानं च दानधर्मफलागमः।
तदर्थं वेदशब्दाश्च व्यवहाराश्च लौकिकाः॥ 12-220-43(73964)
इति सम्यङ्भनस्येते बहवः सन्ति हेतवः।
एतदासीन्ममास्तीति न कश्चित्प्रतिपद्यते॥ 12-220-44(73965)
तेषां विमृशतामेवं तत्तत्समभिधावताम्।
क्वचिन्निविशते बुद्धिस्तत्र जीर्यति वृक्षवत्॥ 12-220-45(73966)
एवमर्थैरनर्थैश्च दुःखिताः सर्वजन्तवः।
आगमैरपकृष्यन्ते हस्तिपैर्हस्तिनो यथा॥ 12-220-46(73967)
`न जातु कामः कामानामुपभोगेन शाम्यति।
हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते॥' 12-220-47(73968)
अर्थांस्तथाऽत्यन्तमुखावहांश्च
लिप्सन्त एते बहवो विशुष्काः।
महत्तरं दुःखमनुप्रपन्ना
हित्वा सुखं मृत्युवशं प्रयान्ति॥ 12-220-48(73969)
विनाशिनो ह्यध्नुवजीवितस्य
किं बन्धुभिर्मित्रपरिग्रहैश्च।
विहाय यो गच्छति सर्वमेव
क्षणेन गत्वा न निवर्तते च॥ 12-220-49(73970)
भूव्योमतोयानलवायवोऽपि
सदा शरीरं प्रतिपालयन्ति।
इतीदमालक्ष्य रतिः कुतो भवे
द्विनाशिनो ह्यस्य न कर्म विद्यते॥ 12-220-50(73971)
इदमनुपधिवाक्यमच्छलं
परमनिरामयमात्मसाक्षिकम्।
नरपतिरभिवीक्ष्य विस्मितः
पुनरनुयोक्तुमिदं प्रचक्रमे॥ ॥ 12-220-51(73972)
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि विंशत्यधिकद्विशततमोऽध्यायः॥ 220॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-220-2 महत्सुखं मोक्षम्॥ 12-220-3 जनको जनकवंश्यः नाम्रा जनदेवः॥ 12-220-4 पाषण्डा लोकायतादयस्तेषां वादिनः प्रतिभटत्वेन जेतारः॥ 12-220-6 कापिलेयः कपिलायाः पुत्रः। परिधावन् एकत्र वासमकुर्वन्॥ 12-220-7 सुपर्यवसितार्थः सम्यङ्निश्चितप्रयोजनः॥ 12-220-8 कामादवसितं यदृच्छया स्थितम्। नृषु सुखं अन्विच्छन्तम्। स्थापयितुमिति शेषः॥ 12-220-9 कपिलं तत्प्रशिष्यत्वात्तत्तुल्यम्॥ 12-220-15 मनुष्यो वयसा वृत इति ध. पाठः। धृत इति ट.थ.पाठः॥ 12-220-17 भगवान्मार्कण्डेयः सनत्कुमारो वा॥ 12-220-18 सामान्यं सर्वेष्वाचार्येषु समबुद्धिम्॥ 12-220-21 कल्याय समर्थाय॥ 12-220-22 जातिर्जन्म। कमं यागादि। सर्वं ब्रह्मलोकान्तम्। तेषु निर्वेदः क्षयिष्णुत्वात्॥ 12-220-23 तं मोहमब्रवीदित पूर्वेणान्वयः॥ 12-220-25 अनात्मा ह्यात्मनः क्लेशं जन्ममृत्युजरामयत् इति ट. थ. पाठः॥ 12-220-29 यत्रकुत्राप्यनुमाने ईदृशानिष्टनित्यात्मान्यतमसाधके साध्यसिद्धिं भावयतः कृतं अलम्। भावनयालमित्यर्थः। उक्तविधयानुमानस्याप्रमाणत्वात्। शरीरस्य शरीरात्॥ 12-220-30 रेतो धातुर्वटकणिका धृतधूमाधिवासनमिति ध. पाठः। सूर्यकान्ताग्निमोक्षणमिति थ. पाठः॥ 12-220-35 व्यूढे च दग्धे चेति ध. पाठः। अन्योन्याज्जायते स्नेहस्तमाहुः सत्वसंक्षयमिति ध. पाठः॥ 12-220-38 सुखितैः सुखितो वापि दृष्टो ह्यस्य विनिर्णय इति ट. थ. पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|